564
अष्टमीचन्द्रकः320 321कुन्दचतुर्थी 322सुवसन्तकः ।
323आन्दोलनचतुर्थ्येकशाल्मली324 मदनोत्सवः325 ॥ ९३ ॥
326उदकक्ष्वेडिकाशो327कोत्तंसिका 328चूतभञ्जिका ।
पुष्पावचायिकां329 चूतलतिका330 भूतमातृका331 ॥ ९४ ॥
कदम्बयुद्धानि332 नवपत्रिका333 334बिसखादिका ।
335शक्रार्चा कौमुदी336 337यक्षरात्रिरभ्यूषखादिका338 ॥ ९५ ॥
339नवेक्षुभक्षिका तोयक्रीडा340 341प्रेक्षादिदर्शनम् ।
  1. प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः. स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते
  2. यस्यां यवस्त्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी
  3. वसन्तावतारदिवसः सुवसन्तकः
  4. यस्यां स्त्रियो दोलामारोहन्ति सा आन्दोलनचतुर्थी
  5. एकमेव सुकुसुमनिर्भरशाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडा एकशाल्मली
  6. त्रयोदश्यां कामदेवपूजा मदनोत्सवः
  7. गन्धोदकपूर्णवंशनाडीश्रृङ्गादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडा उदकक्ष्वेडिका
  8. यत्रोत्तमस्त्रियः पदाभिघातेनाशोकं विकाश्य तत्कुसुममवतंसयन्ति सा अशोकोत्तंसिका
  9. यत्राङ्गनाभिश्चूतमञ्जर्योऽवचित्यानङ्गाय बालरागत्वेनैव दायंदायमवतंस्यन्ते सा चूतभञ्जिका, ‘भूतभञ्जिका’ घ
  10. यत्र युवत्यो मदिरागण्डूषदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका
  11. यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका
  12. पञ्चात्मनानुनयन्ती भूतमातृका
  13. वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य कामिनीनां क्रीडा कदम्बयुद्धानि, कादम्बयुद्धानीत्यपि पाठः
  14. प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका
  15. अभिनवबिसाङ्कुरोद्भेदाभिरामसरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका
  16. शक्रोत्सवदिवसः शक्रार्चा
  17. आश्विने पौर्णमासी कौमुदी
  18. दीपोत्सवो यक्षरात्रिः
  19. शमीधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यूषखादिका’ ‘अभ्युषखादिका’ इत्यपि पाठः
  20. प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका
  21. ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा
  22. नाथादिदर्शनं प्रेक्षा