649

उच्चारणार्थत्वे कुरुते विलापं यथा—

‘पुहवीअ 910होहिइ पई बहुपुरिसविसेसचंचला राअसिरी ।
कह ता महच्चिअ911 इमं णीसामण्णं 912उवठ्ठिअं वेहव्वम् ॥ २६९ ॥’
[पृथिव्या भविष्यति पतिर्बहुपुरूषविशेषचञ्चला राज्यलक्ष्मीः ।
कथं तन्ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् ॥]

913अत्र रामदुःखेन विलपन्ती 914सीतेदमुच्चरति ॥

915अवस्थापनार्थे कुरुते साहसे मनो यथा—

916इयमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय यावन्न 917विलुप्यसे दिवि ॥ २७० ॥’

अत्र रतेः कामशोकेन मरणसाहसे मनोऽवस्थाप्यते ॥

अभ्यञ्जनार्थत्वे करोति चित्तं दुःखेन यथा—

‘दलति हृदयं गाढोद्वेगं द्विधा918 तु न भिद्यते919 वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ २७१ ॥’

अत्र 920रामादेर्दुःखेन चित्तमभ्यज्यते ॥

संभोगनिरुक्तिषु प्रथमानुरागानन्तरे पालनार्थो921 यथा—

‘दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
  1. ‘होइहि’ क ख ग, ‘होहिइ’ सेतुबन्धे, ‘होइ’ घ
  2. ‘महं चिअ’ सेतुबन्धे
  3. ‘उअत्थिअं’ सेतुबन्धे, ‘उअट्ठिअं’ ग
  4. ‘अत्र प्रवासदुःखेन’ क ख
  5. ‘सीता विलपन्ती’ क ख, ‘सीता’ ग नास्ति
  6. ‘अवस्थापनार्थत्वे’ क ख ग
  7. ‘अहमेत्य’ मुद्रितकुमारसंभवे
  8. ‘विलोभ्यसे’ मुद्रितकुमारसंभवे, ख
  9. ‘शोकोद्वेगाद्’ मुद्रित उत्तररामचरिते
  10. ‘न तु भिद्यते’ क ख
  11. ‘वामादेः’ ग घ
  12. ‘पालनार्थे’ घ