650
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते बाला वामतयैव 922संप्रति मम प्रीत्यै नवोढा प्रिया ॥ २७२ ॥’

अत्राप्रागल्भ्यवामताभ्यामनुकूलायामपि नवोढायामिच्छानुवृत्त्या रतिः पाल्यते ॥

मानानन्तरे कौटिल्यार्थो यथा—

‘पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले संपातजातव्रणे ।
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता वाञ्छन्ती मुहुरेणशावनयना पर्याकुला923 रोदिति ॥ २७३ ॥’

अत्र प्रेम्णः स्वभावकुटिलत्वान्मानवत्याः कचग्रहणेन यत्पादताडनादिरूपाः कुटिला924 एव संभोगा जायन्ते ॥

प्रवासानन्तरेऽभ्यवहारार्थो यथा—

‘वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ २७४ ॥’

अत्र 925उत्तरार्धेनोपोषितस्यान्नोपयोग इव प्रियालोकजन्मा पिबतेरभ्यवहारः 926कथ्यते ॥

करुणानन्तरेऽनुभवार्थो यथा—

‘अणुमरणपत्थिआए पच्चागअजीविए927 पिअअमम्मि ।
वेहव्वमंडणं कुलवहूअ सोहग्गअं जाअम् ॥ २७५ ॥’
[अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे ।
वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥]
  1. ‘मेऽद्य सुतरां’ इति मुद्रिते नागानन्दपुस्तके
  2. ‘पर्याकुलं’ क ख
  3. ‘कुटिला एव जायन्ते’ क, ‘कुटिला एव संभोगा जायन्ते’ ख
  4. ‘उत्तरार्धे’ क ख
  5. ‘अभ्यवहारार्थः’ ख
  6. ‘जीएम्मि’ क , ‘जीविएम्मि’ ख