650
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
बाला वामतयैव 922संप्रति मम प्रीत्यै नवोढा प्रिया ॥ २७२ ॥’
अत्राप्रागल्भ्यवामताभ्यामनुकूलायामपि नवोढायामिच्छानुवृत्त्या रतिः पाल्यते ॥
मानानन्तरे कौटिल्यार्थो यथा—
‘पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते
छिन्ने हारलतागुणे करतले संपातजातव्रणे ।
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता
वाञ्छन्ती मुहुरेणशावनयना पर्याकुला923 रोदिति ॥ २७३ ॥’
अत्र प्रेम्णः स्वभावकुटिलत्वान्मानवत्याः कचग्रहणेन यत्पादताडनादिरूपाः कुटिला924 एव संभोगा जायन्ते ॥
प्रवासानन्तरेऽभ्यवहारार्थो यथा—
‘वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ २७४ ॥’
करुणानन्तरेऽनुभवार्थो यथा—
‘अणुमरणपत्थिआए पच्चागअजीविए927 पिअअमम्मि ।
वेहव्वमंडणं कुलवहूअ सोहग्गअं जाअम् ॥ २७५ ॥’
[अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे ।
वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥]