651

अत्र यथेयं मत्प्राणभूतैवमस्या अहमपि जीवितमेवेति पत्या विस्रम्भजोऽनुरागः928 पत्न्याः पुनः प्रेत्यापि यत्संगमो मयाभिलषितः सोऽयं जीवन्त्यैव जीवितेश्वरः समासादित इति विस्रम्भादतिसुखमेवानुभूयते ॥

अत्र प्रथमानुरागानन्तरे संभोगः संक्षिप्तो यथा—

‘अपेतव्याहारं 929धुतविविधशिल्पव्यतिकरं 930करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो- रहल्यासुत्राम्णोः क्षणिकमिह तत्संगतमभूत् ॥ २७६ ॥’

अत्र संक्षेपो निगदेनैव व्याख्यायते ॥

स एव मानानन्तरे संकीर्णो यथा—

‘अणुणिअखणलद्धसुहे पुणो वि संभरिअमण्णुदूमिअविहले931
हिअए माणवईणं चिरेण 932पणअगरुओ पसम्मई रोसो २७७’
[अनुनीतक्षणलब्धसुखे पुनरपि संस्मृतमन्युदूनितविह्वले ।
हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः ॥]

अत्रावस्थिता प्रकृष्टा च रतिर्व्यलीकस्मरणादिभिः संकीर्यते ॥

प्रवासानन्तरे संपूर्णो933 यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानेतान्गमय934 चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ २७८ ॥’
  1. ‘राग ’ क ख
  2. ‘च्युतविविध’ क ख
  3. ‘करस्पर्शारम्भे’ क
  4. ‘विहलो’ क
  5. ‘पअणगरुओ’ ख
  6. ‘संपूर्णा’ क ख
  7. ‘शेषान्मासान्’ मुद्रिते मेघदूते