651
अत्र यथेयं मत्प्राणभूतैवमस्या अहमपि जीवितमेवेति पत्या विस्रम्भजोऽनुरागः928 पत्न्याः पुनः प्रेत्यापि यत्संगमो मयाभिलषितः सोऽयं जीवन्त्यैव जीवितेश्वरः समासादित इति विस्रम्भादतिसुखमेवानुभूयते ॥
अत्र प्रथमानुरागानन्तरे संभोगः संक्षिप्तो यथा—
अत्र संक्षेपो निगदेनैव व्याख्यायते ॥
स एव मानानन्तरे संकीर्णो यथा—
[अनुनीतक्षणलब्धसुखे पुनरपि संस्मृतमन्युदूनितविह्वले ।
हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः ॥]
अत्रावस्थिता प्रकृष्टा च रतिर्व्यलीकस्मरणादिभिः संकीर्यते ॥
प्रवासानन्तरे संपूर्णो933 यथा—
‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
मासानेतान्गमय934 चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ २७८ ॥’