564
- प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः. स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते↩
- यस्यां यवस्त्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी↩
- वसन्तावतारदिवसः सुवसन्तकः↩
- यस्यां स्त्रियो दोलामारोहन्ति सा आन्दोलनचतुर्थी↩
- एकमेव सुकुसुमनिर्भरशाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडा एकशाल्मली↩
- त्रयोदश्यां कामदेवपूजा मदनोत्सवः↩
- गन्धोदकपूर्णवंशनाडीश्रृङ्गादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडा उदकक्ष्वेडिका↩
- यत्रोत्तमस्त्रियः पदाभिघातेनाशोकं विकाश्य तत्कुसुममवतंसयन्ति सा अशोकोत्तंसिका↩
- यत्राङ्गनाभिश्चूतमञ्जर्योऽवचित्यानङ्गाय बालरागत्वेनैव दायंदायमवतंस्यन्ते सा चूतभञ्जिका, ‘भूतभञ्जिका’ घ↩
- यत्र युवत्यो मदिरागण्डूषदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका↩
- यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका↩
- पञ्चात्मनानुनयन्ती भूतमातृका↩
- वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य कामिनीनां क्रीडा कदम्बयुद्धानि, कादम्बयुद्धानीत्यपि पाठः↩
- प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका↩
- अभिनवबिसाङ्कुरोद्भेदाभिरामसरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका↩
- शक्रोत्सवदिवसः शक्रार्चा↩
- आश्विने पौर्णमासी कौमुदी↩
- दीपोत्सवो यक्षरात्रिः↩
- शमीधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यूषखादिका’ ‘अभ्युषखादिका’ इत्यपि पाठः↩
- प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका↩
- ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा↩
- नाथादिदर्शनं प्रेक्षा↩