652

अत्रामुना विरहिवाक्येनापि निर्वेक्ष्याव इति भविष्यत्कालोपाधेः 935प्रवासानन्तरेऽप्यविरुध्यमानेन तं तमात्माभिलाषमित्यादिना तदानीन्तनसंभोगस्य936 संपूर्णत्वं वर्ण्यते ॥

करुणानन्तरे समृद्धो यथा—

‘तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा937 संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ २७९ ॥’

अत्रोत्तरार्धेनेन्दुमत्यजयोर्लोकान्तरप्रत्युज्जीवनेन संभोगसमृद्धिः प्रतिपाद्यते ॥

प्रथमानुरागानन्तरे सहार्थान्वयो यथा—

‘मुहपेच्छओ पई से 938सावि हु पिअरूअदंसणुम्मइआ ।
दो वि कअत्था पुहविं939 940अपुरिसमहिलं त्ति मण्णंति ॥ २८० ॥’
[मुखप्रेक्षकः पतिस्तस्याः सापि खलु प्रियरूपदर्शनोन्मत्ता ।
द्वावपि कृतार्थौ पृथिवीमपुरुषमहिलेति मन्येते ॥]

अत्र पूर्वार्धे रञ्जयत्यर्थ उत्तरार्धे राजत्यर्थः प्रथमानुरागे सह 941भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

तत्रैव पश्चादर्थान्वयो यथा—

‘अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
  1. ‘प्रवेशानन्तरे’ क ख
  2. ‘भोग्यस्य’ क ख
  3. ‘पूर्वाकाराधिकचतुरया’ Mr. S. P. Pandit M. A. संपादिते रघुवंशे, क ग घ
  4. ‘सवीसेसदंसणुम्मइआ’ इति गाथासप्त॰
  5. ‘पुहइं’ इति गाथासप्त॰
  6. ‘अमहिलपुरिसं व’ इति गाथासप्त॰
  7. ‘सिद्धभावेन सिद्धः’ क ख