653
अह्वाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ २८१ ॥’

अत्र रञ्जयत्यर्थः प्रथमानुरागे पुंसि पश्चाद्भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

अत्रैवानुरूपार्थान्वयो यथा—

‘शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ २८२ ॥’

अत्र राजत्यर्थः प्रथमानुरागे स्त्रीपुंसयोरप्यानुरूप्येण सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

तत्रैवानुगतार्थान्वयो यथा—

‘स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयाभितप्तम्942
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्थ किमुताङ्कशय्याम् ॥ २८३ ॥’

अत्र पूर्वार्धे रञ्जयत्यर्थः 943प्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते । सोऽयं 944करणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः । भावसाधनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीलक्षणस्तत्पुरुषः । प्रथमानुरागस्यानन्तरः945 प्रथमानुरागानन्तर इति । का च वृत्तिः । अजहत्स्वार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुरागमुत्सृजतः । युक्तं पुनर्यदजहत्स्वार्था परार्थाभिधानरूपा वृत्तिः स्यात्,

  1. ‘पेलवयापि तप्तं’ इति मुद्रिते कुमारसंभवे, ‘पेलवयाधितप्तं’ क
  2. ‘प्रथमानुगतार्धत्त्रेन’ ख
  3. ‘करुणसाधनः’ ख
  4. ‘इति’ इत्यधिकमत्रास्ति क ख