अत्र रञ्जयत्यर्थः प्रथमानुरागे पुंसि पश्चाद्भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥
अत्रैवानुरूपार्थान्वयो यथा—
अत्र राजत्यर्थः प्रथमानुरागे स्त्रीपुंसयोरप्यानुरूप्येण सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥
तत्रैवानुगतार्थान्वयो यथा—
अत्र पूर्वार्धे रञ्जयत्यर्थः 943प्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते । सोऽयं 944करणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः । भावसाधनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीलक्षणस्तत्पुरुषः । प्रथमानुरागस्यानन्तरः945 प्रथमानुरागानन्तर इति । का च वृत्तिः । अजहत्स्वार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुरागमुत्सृजतः । युक्तं पुनर्यदजहत्स्वार्था परार्थाभिधानरूपा वृत्तिः स्यात्,