अत्र पूर्वार्धे रञ्जयत्यर्थः 943प्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते । सोऽयं 944करणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः । भावसाधनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीलक्षणस्तत्पुरुषः । प्रथमानुरागस्यानन्तरः945 प्रथमानुरागानन्तर इति । का च वृत्तिः । अजहत्स्वार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुरागमुत्सृजतः । युक्तं पुनर्यदजहत्स्वार्था परार्थाभिधानरूपा वृत्तिः स्यात्, 654 अवश्यं ह्यनेन परस्यार्थमभिदधाता स्वार्थ उत्स्रष्टव्यः । बाढं युक्तम् । एवं हि दृश्यते लोके भिक्षुको द्वितीया946 भिक्षामासाद्य पूर्वां न जहाति संचयायैव यतते, एवं तार्हि द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । कस्या विभक्तेः । षष्ठ्याः । न षष्ठीसमर्थोऽनन्तरः । तर्हि प्रथमायाः । न प्रथमासमर्थः प्रथमानुरागः संबन्धाधिक्यात् । अभिहितः सोऽर्थोऽनन्तर्भूतः947 प्रातिपदिकार्थः संपन्न इति सामर्थ्यं भविष्यति । मैवम् । इह प्रथमानुरागानन्तर 948इत्येतस्मात्समुदायाद्विभक्त्या उत्पत्तव्यम् । तेन च समुदायेनैकोऽर्थपिण्डो949 मृत्पिण्ड इवाविभागापन्न950पांसूदकविभागोऽवयवार्थशक्त्यानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते । तस्मिंश्च समुदायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसंख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति ॥

  1. ‘प्रथमानुगतार्धत्त्रेन’ ख
  2. ‘करुणसाधनः’ ख
  3. ‘इति’ इत्यधिकमत्रास्ति क ख
  4. ‘न द्वितीयां भिक्षां’ क, ‘यद्द्वितीयां भिक्षाम्’ ख
  5. ‘अत्रान्तर्भूतः’ क ख
  6. ‘इत्यस्मात्’ क ख
  7. ‘तेन चैकोऽर्थः’ ख
  8. ‘अविभागोत्पन्न’ क ख