654 अवश्यं ह्यनेन परस्यार्थमभिदधाता स्वार्थ उत्स्रष्टव्यः । बाढं युक्तम् । एवं हि दृश्यते लोके भिक्षुको द्वितीया946 भिक्षामासाद्य पूर्वां न जहाति संचयायैव यतते, एवं तार्हि द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । कस्या विभक्तेः । षष्ठ्याः । न षष्ठीसमर्थोऽनन्तरः । तर्हि प्रथमायाः । न प्रथमासमर्थः प्रथमानुरागः संबन्धाधिक्यात् । अभिहितः सोऽर्थोऽनन्तर्भूतः947 प्रातिपदिकार्थः संपन्न इति सामर्थ्यं भविष्यति । मैवम् । इह प्रथमानुरागानन्तर 948इत्येतस्मात्समुदायाद्विभक्त्या उत्पत्तव्यम् । तेन च समुदायेनैकोऽर्थपिण्डो949 मृत्पिण्ड इवाविभागापन्न950पांसूदकविभागोऽवयवार्थशक्त्यानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते । तस्मिंश्च समुदायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसंख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति ॥
मानानन्तरे पूजार्थान्वयो यथा—
अत्र पादपतनादिपूजा मानसिद्धा तदनन्तरेऽप्यनुवर्तते ॥
अत्रैव मानं प्रति प्रियत्वाभिमानार्थान्वयो952 यथा—