654 अवश्यं ह्यनेन परस्यार्थमभिदधाता स्वार्थ उत्स्रष्टव्यः । बाढं युक्तम् । एवं हि दृश्यते लोके भिक्षुको द्वितीया946 भिक्षामासाद्य पूर्वां न जहाति संचयायैव यतते, एवं तार्हि द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । कस्या विभक्तेः । षष्ठ्याः । न षष्ठीसमर्थोऽनन्तरः । तर्हि प्रथमायाः । न प्रथमासमर्थः प्रथमानुरागः संबन्धाधिक्यात् । अभिहितः सोऽर्थोऽनन्तर्भूतः947 प्रातिपदिकार्थः संपन्न इति सामर्थ्यं भविष्यति । मैवम् । इह प्रथमानुरागानन्तर 948इत्येतस्मात्समुदायाद्विभक्त्या उत्पत्तव्यम् । तेन च समुदायेनैकोऽर्थपिण्डो949 मृत्पिण्ड इवाविभागापन्न950पांसूदकविभागोऽवयवार्थशक्त्यानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते । तस्मिंश्च समुदायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसंख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति ॥

मानानन्तरे पूजार्थान्वयो यथा—

‘न स्पृष्टोऽपि त्रिदशसरिता दूरमीर्प्यानुबन्धा- न्नाप्युन्मृष्टो951 भुजगपतिना तर्जनाभिर्जयायाः ।
मानस्यान्ते नयनसलिलैः क्षालितः शैलपुत्र्या पत्युर्मौलौ नतियुजि जयत्यात्मनः पादपांसुः ॥ २८४ ॥’

अत्र पादपतनादिपूजा मानसिद्धा तदनन्तरेऽप्यनुवर्तते ॥

अत्रैव मानं प्रति प्रियत्वाभिमानार्थान्वयो952 यथा—

‘विहायैतन्मानव्यसनमनयोरुच्चकुचयो- र्निधेयः953 प्रेयांस्ते यदि वयमनुल्लङ्घ्यवचसः ।
  1. ‘न द्वितीयां भिक्षां’ क, ‘यद्द्वितीयां भिक्षाम्’ ख
  2. ‘अत्रान्तर्भूतः’ क ख
  3. ‘इत्यस्मात्’ क ख
  4. ‘तेन चैकोऽर्थः’ ख
  5. ‘अविभागोत्पन्न’ क ख
  6. ‘नाप्युत्सृष्टो’ क ख
  7. ‘प्रियत्वाभिमानान्वयो’ क ख
  8. ‘विधेयः’ क ख