655
सखीभ्यः स्निग्धाभ्यो 954गिरमिति निशम्यैणनयना निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे ॥ २८५ ॥’

अत्र मानं प्रति प्रियत्वाभिमानो मानानन्तरेऽप्यनुवर्तते ॥

अत्रैव प्रेमावरोधार्थान्वयो यथा—

‘दूमेंति जे मुहुत्तं कुविअं दासव्व जे955 पसाएंति956
ते च्चिअ महिलाण पिआ सेसा सामि च्चिअ वराआ957 २८६’
[दूनयन्ति ये मुहुर्तं कुपितां दासा इव ये प्रसादयन्ति ।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः ॥]

अत्रास्यामपि प्रेमास्ति 958नास्ति वेति जिज्ञासुः 959प्रियः प्रियां केलीगोत्रस्खलनादिना दुनोति । सा च प्रेमवत्यवश्यमस्मै कुप्यति । स चोपलब्धप्रेमा 960दासवदेनां प्रसादयति । अथैषात्मनि प्रेमास्तित्वमवबुध्यते961 । सोऽयं मानसिद्धोऽर्थस्तदनन्तरेऽप्यनुवर्तते ॥

तत्रैव प्रेमप्रमाणार्थान्वयो962 यथा—

‘सुरकुसुमेहिं कलुसिअं जइ तेहिं चिअ पुणो पसाएमि तुमं ।
तो पेम्मस्स किसोअरि अवराहस्सं अ ण मे कअं अणुरूअं963 २८७’
[सुरकुसुमैः कलुषितां यदि तैरेव पुनः प्रसादयामि त्वाम् ।
ततः प्रेम्णः कृशोदरि अपराधस्य च न मे कृतमनुरूपम् ॥]

अत्र रुक्मिण्याः सुरकुसुममञ्जरी दत्ता मम तु सुरतरुरेव प्रेयसा प्रतिपन्नस्तदहमस्याः 964सहस्रगुणत्वेन प्रियतमेति सत्यभामा स्वप्रेमाणं-

  1. ‘शिवमिति’ क ख
  2. ‘ते’ ख
  3. ‘पसाअंति’ क ख ग
  4. ‘वरोआ’ ख
  5. ‘न वे ति’ क ख घ
  6. ‘प्रियः’ नास्ति ग
  7. ‘न दासवदेनां प्रवासयति’ क, ‘तद्दासवदेनां प्रसादयति’ ख
  8. ‘अनुबध्यते’ ख
  9. ‘प्रेमप्रमापणार्थान्वयो’ क
  10. ‘अणुरूवं’ घ
  11. ‘सहस्रगुणेन’ क ख