अत्र रुक्मिण्याः सुरकुसुममञ्जरी दत्ता मम तु सुरतरुरेव प्रेयसा प्रतिपन्नस्तदहमस्याः 964सहस्रगुणत्वेन प्रियतमेति सत्यभामा स्वप्रेमाणं-656 मिमीते965 । स चायमर्थो 966मानेन सिद्धस्तदनन्तरेऽपि समासमामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । 967प्रथमानुरागानन्तरवदजहत्स्वार्थैव । युक्तं तत्र विस्रम्भणादावपि प्रथमानुरागस्य विद्यमानत्वात् । इह तु माननिवृत्तौ मानापगमादयो जायन्ते । अन्वयाद्विशेषणं भविष्यति । तद्यथा—घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं968 तैलघटोऽयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति । 969भवति तत्र या च यावती 970चार्थमात्रा इहापि तत्तुल्यमेव ॥

  1. ‘सहस्रगुणेन’ क ख
  2. ‘प्रमिमीते’ ख
  3. ‘मानसिद्धः’ क ख
  4. ‘प्रथमानुरागानन्तरम्’ क ख
  5. ‘अयं घृतघटः, अयं तैलघटः’ क ख
  6. ‘भवति’ ख नास्ति
  7. ‘वा’ क ख