566
नित्यो नैमित्तिकश्चान्यः344 सामान्योऽन्यो विशेषवान् ।
प्रच्छन्नोऽन्यः प्रकाशोऽन्यः कृत्रिमाकृत्रिमावुभौ ॥ ९७ ॥
सहजाहार्यनामानौ परौ यौवनजोऽपरः ।
345विस्त्रम्भजश्च प्रेमाणो द्वादशैते महर्द्धयः ॥ ९८ ॥
चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिसंततिः ।
प्रलापो जागरः कार्श्यमरतिर्विषयान्तरे ॥ ९९ ॥
लज्जाविसर्जनं व्याधिरुन्मादो मूर्च्छनं मुहुः ।
मरणं चेति विज्ञेयाः क्रमेण प्रेमपुष्टयः ॥ १०० ॥
346नायकः प्रतिपूर्वोऽसावुपपूर्वोऽनुनायकः ।
नायिका प्रतिपुर्वासावुपपूर्वानुनायिका ॥ १०१ ॥
नायिकानायकाभासावुभयाभास इत्यपि ।
  1. ‘नैमित्तिकश्चान्यो’ क घ
  2. ‘विस्त्रम्भजश्च’ क ख
  3. ‘नायकः प्रति पूर्वाऽयमुपपूर्वोऽनुनायकः’ क ख