656 मिमीते965 । स चायमर्थो 966मानेन सिद्धस्तदनन्तरेऽपि समासमामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । 967प्रथमानुरागानन्तरवदजहत्स्वार्थैव । युक्तं तत्र विस्रम्भणादावपि प्रथमानुरागस्य विद्यमानत्वात् । इह तु माननिवृत्तौ मानापगमादयो जायन्ते । अन्वयाद्विशेषणं भविष्यति । तद्यथा—घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं968 तैलघटोऽयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति । 969भवति तत्र या च यावती 970चार्थमात्रा इहापि तत्तुल्यमेव ॥
तथा हि—
सकषायैरेव वाक्यैर्नायकं निस्तुदन्ती शयनीयं गच्छेदिति मानशेषान्वयो दृश्यते ॥
प्रवासानन्तरे प्रिया न वसत इत्यर्थस्यान्वयो यथा—
- ‘प्रमिमीते’ ख↩
- ‘मानसिद्धः’ क ख↩
- ‘प्रथमानुरागानन्तरम्’ क ख↩
- ‘अयं घृतघटः, अयं तैलघटः’ क ख↩
- ‘भवति’ ख नास्ति↩
- ‘वा’ क ख↩
- ‘रहसुत्ताणिआणणा’ इति गाथासप्त॰ ख, ‘रभसोत्तानितानना’ इति च्छाया↩
- ‘पिअमुह विइण्णम्’ इति गाथासप्त॰, ‘प्रिममुखवितीर्णां’ इति च्छाया च↩
- ‘थोअं थोअं’ इति गाथासप्त॰, ‘थोअत्थोअं’ क, ‘थोअथोअं’ घ, ‘त्थोअं त्थोअं’ ख↩
- ‘महं व’ इति गाथासप्त॰↩
- ‘उअ माणिणी’ इति गाथासप्त॰↩
- ‘नियमक्षाममुखी धृतैकवेणिः’ इति मुद्रितेऽभिज्ञानशाकुन्तले↩
- ‘विरहज्वरम्’ क ख↩