656 मिमीते965 । स चायमर्थो 966मानेन सिद्धस्तदनन्तरेऽपि समासमामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । 967प्रथमानुरागानन्तरवदजहत्स्वार्थैव । युक्तं तत्र विस्रम्भणादावपि प्रथमानुरागस्य विद्यमानत्वात् । इह तु माननिवृत्तौ मानापगमादयो जायन्ते । अन्वयाद्विशेषणं भविष्यति । तद्यथा—घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं968 तैलघटोऽयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति । 969भवति तत्र या च यावती 970चार्थमात्रा इहापि तत्तुल्यमेव ॥

तथा हि—

‘सकअग्गहतंसुण्णामिआणणा971 पिअइ पिअअमविइण्णम्972
973थोअं थोअं रोसोसधं974 व माणंसिण975 मइरम् ॥ २८८ ॥’
[सकचग्रहत्रस्तावनामितानना पिबति प्रियतमवितीर्णम् ।
स्तोकं स्तोकं रोषौषधमिव मानिनी मदिराम् ॥]

सकषायैरेव वाक्यैर्नायकं निस्तुदन्ती शयनीयं गच्छेदिति मानशेषान्वयो दृश्यते ॥

प्रवासानन्तरे प्रिया न वसत इत्यर्थस्यान्वयो यथा—

‘वसने परिधूसरे वसाना 976नियमक्षामतनुः कृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं977 बिभर्ति २८९’
  1. ‘प्रमिमीते’ ख
  2. ‘मानसिद्धः’ क ख
  3. ‘प्रथमानुरागानन्तरम्’ क ख
  4. ‘अयं घृतघटः, अयं तैलघटः’ क ख
  5. ‘भवति’ ख नास्ति
  6. ‘वा’ क ख
  7. ‘रहसुत्ताणिआणणा’ इति गाथासप्त॰ ख, ‘रभसोत्तानितानना’ इति च्छाया
  8. ‘पिअमुह विइण्णम्’ इति गाथासप्त॰, ‘प्रिममुखवितीर्णां’ इति च्छाया च
  9. ‘थोअं थोअं’ इति गाथासप्त॰, ‘थोअत्थोअं’ क, ‘थोअथोअं’ घ, ‘त्थोअं त्थोअं’ ख
  10. ‘महं व’ इति गाथासप्त॰
  11. ‘उअ माणिणी’ इति गाथासप्त॰
  12. ‘नियमक्षाममुखी धृतैकवेणिः’ इति मुद्रितेऽभिज्ञानशाकुन्तले
  13. ‘विरहज्वरम्’ क ख