657

अत्र दुष्यन्तेन शकुन्तलायाः प्रवासे विभूषणाद्यग्रहणं यदवगतं 978तत्तदनन्तरेऽप्यनुवर्तमानं प्रेमप्रकर्षाय भवति ॥

तत्रैव979 युवानः प्रियसंनिधौ न वसन्तीत्यर्थस्यान्वयो यथा—

‘समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः980 २९०’

अत्र पुरूरवाः प्रवासान्मत्त उर्वशीबुध्द्या लतादिकं 981यद्यदाससाद 982तत्तदानेकशोऽन्यथा बभूव । 983तत्संस्काराच्चायं यस्या लतारूपपरिवर्तनं प्रत्येति सोऽयं प्रियासंनिधौ यूनामवासः984 संसिद्धस्तदनन्तरेऽप्यनुवर्तते ॥

अत्रैवोत्कण्ठादिभिश्चेतो वासयतीत्यर्थस्यान्वयो यथा—

985अब्बो दुक्करआरअ पुणो वि तर्त्ति करेसि गमणस्स ।
अज्ज वि ण होंति सरला वेणीअ तरंगिणो चिउरा986 २९१’
[हे दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य ।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥]

अत्र 987प्रवासानुभूतभृशोत्कण्ठादिचित्तवासनाः988 प्रवासानन्तरेऽपि तस्या 989नोपशाम्यन्तीति वेणिकावर्णनादिना सूच्यते ॥

अत्रैव प्रमापयतीत्यर्थस्यान्वयो यथा—

‘त्वद्वियोगोद्भवे चण्डि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥ २९२ ॥’
  1. ‘तदानन्तरे’ क ख
  2. ‘अत्रैव’ क ख
  3. ‘स्पर्शविभावितप्रियः’ क ख मुद्रिते विक्रमोर्वशीये च
  4. ‘यद्यदासादयति’ क
  5. ‘तत्तदनेकशो’ क ख
  6. ‘तत्तत्संकारात्’ क ख
  7. ‘अवासः प्रवासः’ क ख
  8. ‘अब्बो’ इति खेदे
  9. ‘चिहुरा’ क ख ग
  10. ‘प्रवासोद्भूत’ क ख
  11. ‘चित्तवासना’ ख
  12. ‘नो शाम्यतीति’ क ख