658

अत्रोर्वशी990विरहात्पुरूरवा उत्तरां 991कामावस्थां प्रपन्नः प्रियाप्राप्तौ प्रेत्येव प्रत्युज्जीवितस्तदेवानुसंधत्ते । सोऽयं प्रमापणार्थः प्रवाससिद्धस्तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः992 । न तावदनुत्सृष्टस्वार्था, नहि प्रोष्यसमागतयोः प्रवाससंबन्धोऽपि विद्यते । उत्सृष्टस्वार्था तदिह भवतु । युक्तं पुनर्यदुत्सृष्टस्वार्था नाम वृत्तिः स्यात् । बाढं युक्तम् । एवं हि दृश्यते लोकेपुरुषोऽयं परकर्मणि प्रवर्तमानः स्वकर्मोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति । नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । उत्सृजन्नप्ययं स्वार्थं नात्यन्तायोत्सृजति, यः परार्थविरोधी स्वार्थस्तमेवोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति न तु स्थितविहसितकम्पितादीनि । न चायमर्थः परार्थविरोधी विशेषणं नाम । तस्मान्नोत्स्रक्ष्यति ॥

करुणानन्तरेऽनुभूत993प्रादुर्भावान्वयार्थो यथा—

‘जयन्ति जायाश्लिष्टस्य शम्भोरम्भोधिमन्थने ।
मग्नामृतविषास्वादमदमूर्च्छा मनोमुदः ॥ २९३ ॥’

अत्र 994दाक्षायण्या हैमवतीत्वेन करुणानन्तरत्वम् । तत्र करुणदुःखेन मूर्च्छादयः प्रादुरासन् । इह त्वानन्देन ते प्रादुर्भवन्ति ॥

तत्रैवोच्चारणान्वयार्थो यथा—

‘क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्लिष्टं यत्तपसा वपुर्यदपि च प्रोक्ता बटुच्छद्मना ।
तत्सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायणि क्षम्यतामित्युक्त्वा चरणाब्जयोर्विजयते 995लुण्ठञ्छिवायाः शिवः २९४’
  1. ‘विरहे’ क ख
  2. ‘कामावस्थामापन्नः’ क ख
  3. ‘कात्र वृत्तिः’ क ख
  4. ‘प्रादुर्भावार्थान्वयार्थो’ ख
  5. ‘दाक्षायिण्या’ ग घ
  6. ‘तुष्यन्’ क ख