659

अत्र करुणावस्थायां प्रियापादाब्जयोर्लुण्ठता शोकेन यो विलापः कृतः स इह प्रकर्षालापत्वेन 996विपरिणमति ॥

अत्रैव मनोऽवस्थापनान्वयार्थो यथा—

‘अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरलाभादधःकृताः स्निग्धजनाशिषोऽपि २९५’

अत्रैव—

‘यदैव पूर्वं ज्वलने शरीरं 997सा दक्षरोषात्सुदती ससर्ज ।
ततःप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ २९६ ॥’

इति करुणावस्थायामतिस्नेहेनापरिग्रहत्वसाहसे यन्मनोऽवस्थापितं तदिहार्धशरीरप्रदानमहासाहसमेवावतिष्ठते ॥

तत्रैवाभ्यञ्जनान्वयार्थो यथा—

‘भिन्न सद्यः समाधावुपरमति परज्योतिषि स्पन्दसंज्ञे संज्ञामापद्यमाने मृदुमनसि मनागुन्मिषत्स्विन्द्रियेषु ।
व्यापारे पारवश्यं विसृजति मरुति ब्रह्मसब्रह्मचारी वामार्धस्पर्शजन्मा जयति पुररिपोरन्तरानन्दपूरः ॥ २९७ ॥’

अत्र यत्करुणावस्थायां मनः शोकप्रकर्षेणाभ्यक्तमासीत्तदिह प्रियाश्लेषजन्माना परमानन्देनाभ्यज्यते । सोऽयं 998करुणधर्मान्वयस्तदनन्तरेऽपि समाससामर्थ्याद्भवति । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । जहत्स्वार्था । न ह्यत्र करुणार्थस्य गन्धोऽपि । कथं तर्ह्यन्वयः । यथा मल्लिकापुटः चम्पकपुट इत्यत्र 999निःकीर्णास्वपि सुमनःसु मल्लिकादिर्वासनावशाद्विशेषणं भवति—अयं मल्लिकापुटोऽयं चम्पकपुट इति, एवं

  1. ‘परिणमति’ क ख
  2. ‘साक्षादरोषात्’ घ
  3. ‘करुणधर्मसमन्वयः’ क ख
  4. ‘निगीर्णासु’ ख