अत्र यत्करुणावस्थायां मनः शोकप्रकर्षेणाभ्यक्तमासीत्तदिह प्रियाश्लेषजन्माना परमानन्देनाभ्यज्यते । सोऽयं 998करुणधर्मान्वयस्तदनन्तरेऽपि समाससामर्थ्याद्भवति । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । जहत्स्वार्था । न ह्यत्र करुणार्थस्य गन्धोऽपि । कथं तर्ह्यन्वयः । यथा मल्लिकापुटः चम्पकपुट इत्यत्र 999निःकीर्णास्वपि सुमनःसु मल्लिकादिर्वासनावशाद्विशेषणं भवति—अयं मल्लिकापुटोऽयं चम्पकपुट इति, एवं 660 निवृत्तेऽपि स्वार्थे वासनावशात्करुणोऽनन्तरस्य विशेषणं भवति । अस्तु वा प्रथमानुरागादिष्वपि जहत्स्वार्थैव वृत्तिः । नन्वेवं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । वृत्तौ समर्थाधिकारः क्रियते । सामर्थ्यं च भेदः संसर्ग उभयं वा । तत्र राज्ञ इत्युक्ते 1000सर्वं स्वं प्रसक्तम् । पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरूषं निवर्तयत्यन्येभ्यः स्वामिभ्यः;पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः1001 । एवमस्मिन्नुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते, कामं निवर्तताम् । न 1002जातुचित्पुरुषमात्रस्यानयनं भविष्यति । 1003प्राक् च वृत्तेरकृतार्थस्य निवृत्तौ सामर्थ्याभावाद्वृत्तिरेव न स्यात् । वृत्तिनिमित्ता च निवृत्तिस्तस्माददोष इति । तत्र राज्ञः पुरुष इत्यत्र यदा तावदवधृतपरायत्त1004वृत्तिरयं पुरुषो न स्वतन्त्रस्तदा स्वामिसंसर्गस्यावगतत्वात्स्वामिविशेषज्ञानायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यः पुरुषं व्यावर्तयति । सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद 1005इत्युच्यते । यदा पुनरनवगतपरायत्तभावस्य पुरुषस्य स्वामिसंबन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशेषसंसर्गस्य1006 शब्दोपादानत्वादनवकाशो विशेषान्तरसंपात इत्यशब्दा1007 स्वाम्यन्तरनिवृत्तिरवसीयते । यदा त्वर्थान्तरनिवृत्तिं वार्थसंसर्गं 1008वाभिसंधायोपसर्जनपदानि प्रयुज्यन्ते तदा शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षया1009 भेदसंसर्गसमुदयः सामर्थ्यं भवति । यथा नीलं च तदुत्पलं चेति नीलोत्पलम् । प्रथमश्चासावनुरागश्चेति प्रथमानुराग इति, 661 प्रथमानुरागानन्तर इत्यादिषु च भेदसामर्थ्यं यथा राज्ञो भृत्य इति । यतोऽनन्तर इत्युक्तेऽवधृतमिदं कस्याप्यवघेरनन्तरोऽयं न स्वतन्त्र इति सर्वोऽवधिः प्रसक्तः । प्रथमानुरागस्येत्युक्ते सर्वः संबन्धी प्रसक्तः । इहेदानीं प्रथमानुरागानन्तर इत्युक्ते प्रथमानुरागोऽनन्तरं निवर्तयत्यन्येभ्योऽवधिभ्यः । अनन्तरः प्रथमानुरागं निवर्तयत्यन्येभ्यः संबन्धिभ्यः । तत्र योऽसौ भेदस्तत्सामर्थ्यं च, तन्निमित्ता च वृत्तिः । भेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनय्योपसर्जनस्य प्रथमानुरागस्यार्थो निवर्तते । यस्यापि प्रधानस्यानन्तरस्यावधिमतो निवर्तते सोऽप्यवधिमवच्छिनत्ति । एवमुभयतो व्यवच्छेदे निर्ज्ञातेऽनन्तरविशेषे समुदायार्थे चान्यस्मिन्प्रादुर्भवति । यदि प्रथमानुरागाद्यर्थो निवर्तते, कामं निवर्तताम्, न 1010जातुचिदवधिमन्मात्रस्य संप्रत्ययो भविष्यति । ननु चान्वयव्यतिरेकाभ्यां जहत्स्वार्थत्वं नोपपद्यते । तथा हि ‘प्रथमानुरागानन्तरे’ इत्युक्ते कश्चिच्छब्दः श्रूयते । प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः, अर्थोऽपि कश्चिद्गम्यते कन्याविस्रम्भणादिरवधिमत्त्वं च । ‘मानानन्तरे’ इत्युक्ते कश्चिच्छब्दभागो हीयते, कश्चिदुपजायते, कश्चिदन्वयी । प्रथमानुरागेति हीयते, 1011मानेत्युपजायते, अतन्तर इत्यन्वयी । अर्थोऽपि कश्चिद्धीयते, कश्चिदुपजायते, कश्चिदन्वयी । कन्याविस्रम्भणादिर्हीयते, मानशैथिल्यादिपजायते, अवधिमत्त्वमन्वयि1012 । तेन मन्यामहे यः शब्दभागो हीयते तस्यासावर्थः; योऽर्थो हीयते, य उपजायते तस्यायमर्थो; योऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो; योऽर्थः सोऽन्वयीति । मैवम् । यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दा-662 र्थयोः संबन्धावधारणम् । अन्यथासिद्धौ चेमौ । तथा हि यत्र बृंहितं हीयते, ह्नेषितमुपजायते, रेणुचक्रमन्वयि; तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यः । न चैतावता रेणुचक्रादिपिपीलिकाः कारणं भवति1013 । यत्र वा क्षीरं हीयते, दध्युपजायते, पात्रमन्वयि, तत्र माधुर्यं हीयते, अम्लतोपजायते, तृप्तिरन्वयिनी । न चैतावता पात्रस्य तृप्तिः कार्यं भवति । अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते । यथा लोके बधिरोऽपि चक्षुष्मानालोकयति, सत्यपि श्रोत्र उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुःश्रोत्रसंनिधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य । यस्य केवलस्य योऽर्थोऽवधृतः पदार्थान्तरसंनिधानेऽपि तस्य स एव । नहि रसनमसंनिधौ दर्शनस्य मधुरादिव्यञ्जकं दर्शनसंनिधौ नीलादिव्यक्तिं प्रति सामर्थ्यं लभते । प्रथमानुरागशब्दस्य केवलस्योत्कण्ठादिषु, मानशब्दस्येर्ष्यायितादिषु, अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतमतस्तेषां तावानेवार्थो भवति । यः पुनः पदयोरन्योन्योपश्लेषाद्विस्रम्भणादिर्मानशैथिल्यादिर्वावधिमद्विशेषोऽन्यावधिकः प्रतीयते वाक्यार्थः स भवतीति । यदि वा1014 यथानपेक्षितावयवार्था वृक्षश्रोत्रियशक्रगोपादयः स्वसामर्थ्यनियतमर्थमाचक्षते तथा संघाता एवैते प्रथमानुरागानन्तरादयो राजपुरुषादयश्चानपेक्षितावयवार्था यथासामर्थ्यमर्थेषु निविशन्ते । ननु चाव्यपदेश्यपूर्वापरविभागा 1015भिन्नार्थाभिधायिनो वृक्षादयः प्रतीयमानभागभेदानुयाताः संबन्धिपदार्थोपहितभेदवृत्त्यभिधायिनः पुनरिमे तत्कथं प्रथमानुरागानन्तरादयो वृक्षादिवद्रूढिशब्दा भवितुमर्हन्ति । तदसत् । रूढिशब्दा यौगिका इति विभागोऽभेददर्शनादर्शनाभ्याम1016भिनिविष्ट-663 बुद्धेः प्रतिपादनोपाय एव । 1017अपथाभिनिविष्टो ह्ययं क्रमेण तस्मादपथा1018न्निवर्तयितव्यः । ततोऽस्याप्रत्यभिज्ञायमानप्रकृतयः श्रोत्रियक्षत्रियादयो दर्श्यन्ते । न ह्यत्र प्रकृतिरूपमवसीयते । यतः प्रकृत्यर्थावच्छिन्नः प्रत्ययार्थोऽभिधीयते । ततोऽनवसीयमानावयवविभागा रूढयः काश्चिदुपन्यस्यन्ते । यत्रात्यन्तमसंभवोऽवयवार्थस्य यथा—शक्रगोपाः, तैलपायिकाः, 1019मण्डपेति । पुनः कदाचित्संनिहितावयवार्था जातिविशेषाभिधायिनः सप्तपर्णकृतमालादय उदाह्रियन्ते । यतः प्रपलाशोऽप्यनुद्भिन्नपलाशोऽपि च वनस्पतिः सप्त पर्णान्यस्य पर्वणि पर्वणीति सप्तपर्ण इत्याख्यायते । तथा निःकीर्णकुसुमस्तरुरनारब्धकलिकाजालकोऽपि कृता मालानेनेति कृतमाल इत्यभिधीयते । अथ च1020 पञ्चाङ्गुलमिवाश्वकर्ण इव पर्णमस्येत्युपचरितार्थावयवा जातिवाचिन एव पञ्चाङ्गुलाश्वकर्णादयो वर्ण्यन्ते । तेषु हि पञ्चाङ्गुलादिव्यपदेशः प्रोद्भिद्यमानप्रवालमपि यावदनुवर्तते । ततः 1021संनिधानेऽप्यनाश्रीयमाणवृत्तिपदार्था1022 लोहितशालिर्गौरखर1023 इत्यादयो निगद्यन्ते । तत्र हि सन्नपि वर्णविशेषः समुदायस्य जातिवचनत्वाच्छब्दार्थत्वेन नावसीयते । तदेवमयं शकलीकृतवृत्तिपदार्थाभिनिवेशः प्रथमानुरागानन्तरादाविव राजपुरुषादावप्यवयवाभिनिवेशं शक्यते त्याजयितुम् । अत एव प्रथमानुरागादीनां विप्रलम्भसंभोगादीनां च पारिभाषिकोऽपि संसर्गः संनिधीयत इति ॥

  1. ‘करुणधर्मसमन्वयः’ क ख
  2. ‘निगीर्णासु’ ख
  3. ‘सर्वस्वं’ घ
  4. ‘स्वेभ्यः’ क नास्ति
  5. ‘जातु क्वचित्’ क ख
  6. ‘प्राक् प्रवृत्तेः’ ख, ‘प्राक् च प्रवृत्तैः’ ग
  7. ‘यत्र’ ग घ
  8. ‘इति’ ख नास्ति
  9. ‘विशेषसंसर्गं चाभिसंधायोपसर्जनस्य’ ख
  10. ‘अशाब्दी’ क
  11. ‘स्वात्मसंसर्गं च’ क, ‘स्वार्थसंसर्गं च’ ख
  12. ‘अभेदापेक्षायाम्’ क ख ग पुस्तके पाठोऽयं त्रुटितः
  13. ‘जातु क्वचित्’ क ख
  14. ‘मान्येति’ ख
  15. ‘अन्वयित्वेन’ क ख
  16. ‘भवन्ति’ ख
  17. ‘च’ क ख
  18. ‘अभिन्नार्थाभिधायिनः’ ग घ
  19. ‘अभिनिविशते’ क ख
  20. ‘अयथाभिनिविष्टो’ ख
  21. ‘अपदार्थात्’ क
  22. ‘मण्डप इति’ क ख
  23. ‘च’ क ख ग नास्ति
  24. ‘संनिधीयमानेऽपि’ क ख
  25. ‘पदार्थाः’ ख
  26. ‘गौरस्वरः’ ख