664

प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः । स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते । यथा—

‘अवसहिअजणो पइणा सलाहमाणेण एच्चिरं हसिओ ।
चन्दो त्ति तुज्झ1024 1025मुहसंमुहदिण्णकुसुमंजलिविलक्खो1026 ॥ २९८ ॥’
[अवशहृतजनः पत्या श्लाघ्यमानेनेयच्चिरं हसितः ।
चन्द्र इति तव मुखसंमुखदत्तकुसुमाञ्जलिविलक्षः ॥]

यस्यां यवस्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी । यथा—

‘लुलिआ गहवइधूआ दिण्णं व फलं जवेहिं सविसेसं ।
1027एण्हिं अणिवारिअमेव 1028गोहणं 1029चरउ छेत्तम्मि ॥ २९९ ॥’
[लुलिता गृहपतिसुता दत्तमिव फलं यवैः सविशेषम् ।
इदानीमनिवारितमेव गोधनं चरतु क्षेत्रे ॥]

वसन्तावतारदिवसः सुवसन्तको यथा—

‘छणपिट्ठधूसरत्थणि महुमअतम्बच्छि कुवलआहरणे ।
1030कण्णकअचूअमंजरि पुत्ति तुए मंडिओ गामो ॥ ३०० ॥’
[क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे ।
कर्णकृतचूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥]

यत्र स्त्रियो दोलामारोहन्ति सान्दोलनचतुर्थी । यथा—

‘अंदोलणक्खणोट्ठिआए दिट्ठे तुमम्मि मुद्धाए ।
1031आसंधिज्जइ काउं1032 करपेल्लणणिच्चला1033 दोला ॥ ३०१ ॥’
[आन्दोलनक्षणोत्थितया दृष्टे त्वयि मुग्धया ।
आशास्यते कर्तुं करप्रेरणनिश्चला दोला ॥]
  1. ‘तस्स’ ख
  2. ‘मुहदिण्णकुसुमं’ ख
  3. ‘जातविलक्खो’ ख
  4. ‘एहिं’ ख
  5. ‘सेवगोहणं’ क, ‘सेवग्गेहणं’ ख
  6. ‘चवर’ क
  7. ‘कस्स’ ख
  8. ‘आसङ्घिज्जइ’ क
  9. ‘काओ’ क ख
  10. ‘णिच्चता’ क ख