567
तिर्यक्षु च तदाभास347 इति द्वादश नायकाः ॥ १०२ ॥
तेषु सर्वगुणोपेतः कथाव्यापी च नायकः ।
अन्यायवांस्तदुच्छेद्य उद्धतः प्रतिनायकः ॥ १०३ ॥
ततः कैश्चिद्गुणैर्हीनः पूज्यश्चैवोपनायकः ।
समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ॥ १०४ ॥
स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ।
हेतुरीर्ष्यायितादीनां सपत्नी प्रतिनायिका ॥ १०५ ॥
ततः कैश्चिद्गुणैर्हीना पूज्या चैवोपनायिका ।
समा न्यूनापि वा किंचित्कनीयस्यनुनायिका ॥ १०६ ॥
तदाभासास्तथैव स्युर्भेदाश्चैषां348 गुणादिभिः ।
नायकस्तत्र गुणत उत्तमो मध्यमोऽधमः ॥ १०७ ॥
349प्रकृतेः सात्त्विकः स स्याद्राजसस्तामसस्तथा ।
साधारणोऽनन्यजातिः350 स विज्ञेयः परिग्रहात् ॥ १०८ ॥
उद्धतो ललितः शान्त उदात्तो धैर्यवृत्तितः ।
शठो धृष्टोऽनुकूलश्च दक्षिणश्च प्रवृत्तितः ॥ १०९ ॥
गुणतो नायिकापि स्यादुत्तमा मध्यमाधमा ।
मुग्धा मध्या प्रगल्भा च वयसा कौशलेन वा351 ॥ ११० ॥
धीराधीरा च धैर्येण स्वान्यदीयापरिग्रहात् ।
ऊढानूढोपयमनात्क्रमाज्ज्येष्ठा कनीयसी ॥ १११ ॥
मानर्द्धेरुद्धतोदात्ता शान्ता च ललिता च सा ।
सामान्या च पुनर्भूश्च स्वैरिणी चेति वृत्तितः ॥ ११२ ॥
  1. ‘तिर्यक्षु च तदाभासा’ क ख
  2. ‘भेदास्तेषां’ क ख
  3. ‘प्राकृतः’ ख
  4. ‘अनन्यजानिः’ ख
  5. ‘च’ क ख