665

एकमेव 1034कुसुमनिर्भरं शाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडैकशाल्मली । यथा—

‘को एसोत्ति पलोट्ठुं1035 1036सिंवलिवलिअं पिअं परिक्खसइ ।
हलिअसुअं मुद्धवहू सेअजलोल्लेण हत्थेण ॥ ३०२ ॥’
[क एष इति प्रत्यावर्तितुं शाल्मलिवलितं प्रियं परिपातयति ।
हालिकसुतं मुग्धवधूः स्वेदजलार्द्रेण हस्तेन ॥]

त्रयोदश्यां कामदेवपूजामदनोत्सवः । यथा—

‘गामतरुणीओ हिअअं हरंति पोढाण1037 थणहरिल्लीओ ।
1038मअणूसअम्मि कोसुंभकंचुआहरणमेत्ताओ ॥ ३०३ ॥’
[ग्रामतरुण्यो हृदयं हरन्ति प्रौढानां स्तनभारवत्यः ।
मदनोत्सवे कौसुम्भकञ्चुकाभरणमात्राः ॥]

गन्धोदकपूर्णवंशनाडीशृङ्गकादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडोदकक्ष्वेडिका । यथा—

1039अह धाविऊण1040 संझामएण1041 सव्वंगिअं पडिच्छंति ।
1042फग्गुमहे तरुणीओ गहवइसुअहत्थचिक्खिल्लं ॥ ३०४ ॥’
[अथ धावित्वा संध्यामदेन सर्वाङ्गिकं प्रतीक्षन्ते ।
फल्गुमहे तरुण्यो गृहपतिसुतहस्तकर्दमम् ॥]
  1. ‘सुकुसुमनिर्भरं’ क, ‘सुकुसुमनिर्भरशाल्मलिवृक्षं’ ख
  2. ‘पलद्धं’ ख
  3. ‘संवलि’ क
  4. ‘छेआणं’ इति गाथासप्त॰, ‘विदग्धानाम्’ इति च्छाया च
  5. ‘मअणे कुसुम्भरञ्जिअकञ्चु[इ]आहरणमेत्ताओ’ इति गाथासप्त॰, ‘मदने कुसुम्भरागयुक्तकञ्चुकाभरणमात्राः’ इति च्छाया च
  6. ‘अहं’ ख
  7. ‘धाविजण’ ख
  8. ‘सङ्गमएण’ ख
  9. ‘पग्गुमहे’ क