666

यत्रोत्तमस्त्रियः पादाभिघातेनाशोकं विकास्य1043 तत्कुसुममवतंसयन्ति साशोकोत्तंसिका । यथा—

‘उत्तंसिऊण दोहलविअसिआसोअमिन्दुवदणाए ।
1044विहिणो णिप्फलकंकेल्लिकरणसद्दो समुप्पुसिओ ॥ ३०५ ॥’
[उत्तंसयित्वा दोहदविकसिताशोकमिन्दुवदनया ।
विधेर्निष्फलकंकोलकरणशब्दः समुत्प्रोञ्छितः ॥]

यत्राङ्गनाभिश्चूतमञ्जर्योऽवरुज्यानङ्गाय 1045बाणत्वेन दायं दायमवतंस्यन्ते सा चूतभञ्जिका । यथा—

‘रइअं पि ता ण सोहइ रइजोग्गं कामिणीण छणणेवच्छं ।
कण्णे जा ण रइज्जइ1046 कवोलघोलंतसहआरं1047 ॥ ३०६ ॥’
[रचितमपि तावन्न शोभते रतियोग्यं कामिनीनां क्षणनेपथ्यम् ।
कर्णे यावन्न रच्यते कपोलघूर्णमानसहकारम् ॥]

यत्र युवतयो मदिरागण्डूषदोहदेन बकुलं विकास्य1048 तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका । यथा—

‘पीणथणएसु केसर दोहलदाणुम्मुहीअ णिवलंतो ।
तुंगसिहरग्गपडणस्स जं फलं तं तुए1049 पत्तं ॥ ३०७ ॥’
[पीनस्तनेषु केसर दोहददानोन्मुख्या निपतन् ।
तुङ्गशिखराग्रपतनस्य यत्फलं तत्त्वया प्राप्तम् ॥]
  1. ‘विकाश्य’ क ख ग
  2. ‘विरहिणो’ क ख
  3. ‘बालरागत्वेनैव’ ख
  4. ‘जाव ण रइज्जइ’ क, ‘जाव ण रज्जइ’ ख
  5. ‘कवोलघोणन्तपल्लवसहआरं’ क ख
  6. ‘विकाश्य’ क ख ग
  7. ‘तए’ क ख