667

यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका । यथा—

1050णवलइपहारमंगे जहिँ जहिँ महइ देअरो दाउं ।
रोमंचदंडराई तहिं तहिं दीसइ बहूए ॥ ३०८ ॥’
[नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम् ।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वाः ॥]

1051पञ्चाल्यनुयातं भूतमातृका । यथा—

‘विहलइ से णेवच्छं पम्माअइ मंडणं गई खलइ ।
भूअछणणच्चणअम्मि1052 सुहअ मा णं 1053पलोएसु ॥ ३०९ ॥’
[विह्वलयत्यस्या नेपथ्यं प्रम्लायते मण्डनं गतिः स्खलति ।
भूतक्षणनृत्ये सुभग मैनां प्रलोकयेः ॥]

वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतौर्द्विधा वनं1054 विभज्य कामिनीनां क्रीडाः1055 कदम्बयुद्धानि । यथा—

‘सहिआहिँ पिअविसज्जिअकदंबरअभरिअणिब्भरुच्छसिओ ।
दीसइ कलंवथवओव्व थणहरो हलिअसोण्हाए ॥ ३१० ॥’
[सखीभिः प्रियविसर्जितकदम्बरजोभरितनिर्भरोच्छ्वसितः ।
दृश्यते कदम्बस्तबक इव स्तनभरो हालिकस्नुषायाः ॥]

प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां

  1. ‘णवलअपहरं’ क ख गाथासप्त॰
  2. ‘पञ्चाल्यनुनयन्ती’ क, ‘पञ्चात्मानुनयन्ती’ ख
  3. ‘णच्चणपाम्मि’ ख
  4. ‘पुलोएसु’ क ख
  5. ‘दलं’ क, ‘बलं’ ख
  6. ‘क्रीडा’ ख ग