668 कृत्रिमविवाहादिक्रीडा नवपत्त्रिका । 1056तत्र च वरणविधानादौ तेषामेवंविधाः परिहासा भवन्ति । यथा—

‘ता कुणह कालहरणं तुवरन्तम्मि वि वरे विवाहस्स1057
1058जा[व] 1059पंडुणहवआइं होंति कुमारीअ अंगाइं ॥ ३११ ॥’
[तावत्कुरुत कालहरणं त्वरमाणेऽपि वरे विवाहस्य ।
यावत्पाण्डुनखपदानि भवन्ति कुमार्या अङ्गानि ॥]

अभिनवबिसाङ्कुरोद्भेदाभिरामं सरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका । यथा—

‘गेण्हंति पिअअमा पिअअमाण वअणाहि विसलअद्धाइं ।
हिअआइँ वि कुसुमाउहबाणकआणेअरंधाइं1060 ॥ ३१२ ॥’
[गृह्णन्ति प्रियतमाः प्रियतमानां वदनाद्बिसलतार्धानि ।
हृदयानीव कुसुमायुधबाणकृतानेकरन्ध्राणि ॥]

शक्रोत्सवदिवसः शक्रार्चा । यथा—

‘सच्चं चअ कट्ठमओ1061 सुरणाहो जेण हलिअधूआए1062
हत्थेहिँ 1063कमलदलकोमलेहिँ छित्तो ण पल्लविओ ॥ ३१३ ॥’
[सत्यमेव काष्ठमयः सुरनाथो येन हालिकदुहित्रा ।
हस्तैः कमलदलकोमलैः स्पृष्टो न पल्लवितः ॥]

1064आश्विने पौर्णिमासी कौमुदी । यथा—

‘अह तइ 1065सहत्थदिण्णो 1066कह वि खलंतमत्तजणमज्झे ।
1067तिस्सा थणेसु जाओ विलेवणं कोमुईवासो1068 ॥ ३१४ ॥’
[अथ त्वया स्वहस्तदत्तः कथमिव स्खलन्मत्तजनमध्ये ।
तस्याः स्तनेषु जातो विलेपन कौमुदीवासः ॥]
  1. ‘तत्र’ घ
  2. ‘विवालस्स’ क
  3. ‘जाव’ क, ‘जावं’ ख
  4. ‘पदुणहवआइ’ ख
  5. ‘इंधाइं’ ख
  6. ‘कट्टमओ’ ख
  7. ‘धोआए’ क, ‘धीआए’ ख
  8. ‘कमलदलकोमलेहिं’ ग पाठस्त्रुटितः
  9. ‘आश्विन’ क ख
  10. ‘महत्थदिण्णे’ क ख
  11. ‘कह वि’ ख
  12. ‘तिण्णाथणेसु’ क
  13. ‘केमुईवासो’ क