‘आश्लेषे प्रथमं क्रमेण विजिते 1094हृद्येऽधरस्यार्पणे 1095केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
सान्तर्हासनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया1096 तूष्णीं 1097सारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ ३२० ॥’
  1. ‘हृष्टाधरस्यार्पणे’ क, ‘दृष्टाधरस्यार्पणे’ ख
  2. ‘केलीद्यूतविधौ’ क ख
  3. ‘स्फुरद्दन्तया’ ख
  4. ‘शारिविसारणाय’ क