671
[स्तोकारूढमधुमदा क्षणविस्मृतिरपराधदत्तोल्लापा ।
हसित्वा संस्थाप्यते प्रियेण संस्मृतलज्जिता कापि प्रिया ॥]

प्रेमप्रकारे विप्रियादिभिरप्यविनाशनीयो नित्यो यथा—

‘दिट्ठाकुविआणुणआ पिआ सहस्सजणपेल्लणं पि विसहिअं1100
जस्स 1101णिसण्णाइ उरे सिरीए1102 पेम्मेण लहुइओ1103 अप्पाणो ३२२’
[दृष्टा कुपितानुनया प्रिया सहस्नजनप्रेरणमपि विसोढम् ।
यस्य निषण्णयोरसि श्रिया प्रेम्णा लघूकृत आत्मा ॥]

तपश्चरणादिजन्मा नैमित्तिको यथा—

इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ३२३’

अनिर्धारितविशेषः सामान्यो यथा—

‘कुविआओ1104 वि पसण्णाओ 1105ओरण्णमुहीओ 1106वि समाणीओ ।
जह गहिआ तह हिअअं धारेंति अ णिव्वइं बाला ॥ ३२४ ॥’
[1107कुपिता अपि प्रसन्ना अवरुदितमुख्योऽपि समानाः ।
यथा गृहीतास्तथा हृदयं धारयन्तीव निर्वृतिं बालाः ॥]

निर्धारितविशेषप्रकारो विशेषवान् यथा—

‘णवि तह अणालवंती हिअअं दूमेइ 1108माणिणी अहिअं ।
जह 1109दूरविअंभिअ1110गरुअरोसमज्झत्थभणिएहिं1111 ॥ ३२५ ॥’
  1. ‘विसहिआम्’ क, ‘विसहिआ’ ख
  2. ‘णिसण्णइ’ क
  3. ‘सिरीअ’ क
  4. ‘लहुअइओ’ क ख
  5. ‘कुविआअ’ ख, ‘कुविआअ’ क ग
  6. ‘ओरण्णमुहीओ’ क, नास्ति ।‘ओणामुहीओ’ ख
  7. ‘विसमाणीओ’ इत्यादि गाथांशः—ग त्रुटित एव
  8. ध्वन्यालोके त्वियमेव गाथैवमुदाहृता—‘कुविआओ पसण्णाओ ओरण्णमुहीओ विहसमाणाओ । जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ ॥’ [कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः । यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥] इति च्छाया च
  9. ‘माणिईणी'(?) क
  10. ‘दूरे वि’ क
  11. ‘गरूअ’ ख
  12. ‘भणिषेण’ क, ‘भणिएइ’ ख