672
[नापि तथा नालपन्ती हृदयं दुनोति मानिन्यधिकम् ।
यथा दूरविजृम्भितगुरुकरोषमध्यस्थमणितैः ॥]

इङ्गितादिभिरप्यनवगम्यः प्रच्छन्नो यथा—

‘दिअहे दिअहे 1112सूसइ संकेअअभंग1113वड्ढिआसङ्का ।
1114आवंडुरोवणमुही कलमेण समं कलमगोवी1115 ॥ ३२६ ॥’
[दिवसे दिवसे शुष्यति संकेतकभङ्गवर्धिताशङ्का ।
आपाण्डुरावनतमुखी कलमेन समं कलमगोपी ॥]

1116सख्यादिभिरवगतः प्रकाशो यथा—

‘जइ होसि ण तस्स पिआ अणुदिअहं णीसहेहिँ1117 अंगेहिं ।
णवसूअपीअपेऊसमंतपाडि व्व1118 किं सुवसि ॥ ३२७ ॥’
[यदि भवसि न तस्य प्रियानुदिवसं 1119निःसहैरङ्गैः ।
नवसूतपीत1120पीयूषमत्तमहिषीवत्सिकेव किं स्वपिषि ॥]

कारणोपाधिकः कृत्रिमो यथा—

‘अद्दंसणेण पुत्तअ सुट्ठु वि णेहाणुबंध1121गहिआइं ।
हत्थउडपाणिआइँ वि(व)1122 कालेण गलंति पेम्माइं1123 ॥ ३२८ ॥’
[अदर्शनेन पुत्रक सुष्ठ्वपि स्नेहानुबन्धगृहीतानि ।
हस्तपुटपानीयानीव कालेन गलन्ति प्रेमाणि ॥]
  1. ‘रूपई’ क, ‘रूसइ’ ख
  2. ‘वट्टिआसङ्का’ क
  3. ‘आवण्डुरोणअमुही’ गाथासप्त॰
  4. ‘गोपी’ घ
  5. ‘संख्यादिभिः’ ख
  6. ‘दीअह’ क, ‘अणुदिअहं’ इति गाथासप्त॰ पाठः, ‘अनुदिवसं’ इति च्छाया च
  7. ‘मत्तपाडिव्व’ क, ‘मओ पाडिव्व’ ख, ‘मत्तपाडिव्व’ गाथासप्त॰ पाठः
  8. निःसहैः सुरतश्रमखिन्नैरङ्गैः
  9. पीयूषेणाभिनवदुग्धेन मत्ता पाडीव वत्सिकेव
  10. ‘घडिआइं’ गाथासप्त॰
  11. ‘व’ गाथासप्त॰
  12. ‘वाल्लन्ति’ क 'वाल्लान्ति’ ख