677
[यन्मूर्च्छिता न च श्रुतः कदम्बगन्धेन तद्गुणे पतितम् ।
इतरथा गर्जितशब्दो जीवेन विना न व्यतिक्रामेत् ॥]
मरणं यथा—
[अद्यापि तावदेकं मा मां वारय प्रियसखि रुदन्तीम् ।
कल्ये पुनस्तस्मिन् गते यदि न मरिष्यामि न रोष्यामि ॥]
ता इमा विप्रलम्भजन्मानो द्वादशापि प्रेमपुष्टिभूमयः संभोगेषु स्वानुरूपामेव प्रेमप्रकर्षभूमिकामास्कन्दयन्ति ॥
नायकेषु कथाव्यापी नायको यथा—
‘गुरोः शासनमत्येतुं न शशाक स राघवः ।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ ३४६ ॥’
प्रतिनायको यथा—
‘जेतारं लोकपालानां 1174स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमरातिं बह्वमन्यत ॥ ३४७ ॥’
उपनायको यथा—
‘स हत्वा वालिनं वीरं1175 तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ ३४८ ॥’
- ‘अज्जं पि’ क ख गाथासप्त॰↩
- ‘मासं’ क ख↩
- ‘बारेह’ क, ‘धारेह’ ख↩
- ‘पहिऊण’ क ख, ‘जइ ण मुआ ता ण रोइस्सम्’ गाथासप्त॰ । अत्रत्यसाहित्याचार्यभट्टमथुरानाथशास्त्रिविरचितासु छायार्यासु तु—‘अद्येव तावदेकं मा रुदनीं निवारयस्वालि । कल्ये गते तु तस्मिन् न हि रोदिष्यामि यदि न मृता ॥’↩
- ‘तैर्मुखैः’ क↩
- ‘वीरः’ इति S. P. Pandit M. A. संपादिते रघुवंशे↩