555
रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥ १ ॥
विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु ।
आत्मसम्यग्गुणोद्भूतेरेको हेतुः प्रकाशते ॥ २ ॥
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव चेदशृङ्गारी नीरसं सर्वमेव तत् ॥ ३ ॥
पश्यति स्त्रीति वाक्ये हि न रसः प्रतिभासते ।
विलोकयति कान्तेति व्यक्तमेव प्रतीयते ॥ ४ ॥
कन्ये कामयमानं मां त्वं न कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्यायैव कल्पते ॥ ५ ॥
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६ ॥
नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रृतिः ।
अलौकिकार्था261 युक्तिश्च रसमाहर्तुमीशते ॥ ७ ॥
वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयम् ।
सर्वासु262 ग्राहिणीं तासु रसोक्तिं प्रतिजानते ॥ ८ ॥
263भावो जन्मानुबन्धोऽथ264 निष्पत्तिः पुष्टिसंकरौ ।
ह्रासाभासौ शमः शेषो विशेषः 265परिशेषवान् ॥ ९ ॥
विप्रलम्भोऽथ संभोगस्तच्चेष्टास्तत्परीष्टयः266
निरुक्तयः प्रकीर्णानि प्रेमाणः प्रेमपुष्टयः ॥ १० ॥
  1. ‘अलौकिकार्थयुक्तिश्च’ क ख
  2. ‘सर्वानुग्राहिणीम्’ क
  3. अथ चतुर्विशतिरसोक्तीराह
  4. ‘अर्थनिष्पन्ति’ क ख
  5. ‘परिपोषवान्’ क ख
  6. परीक्षाः