678
अनुनायको यथा—
‘1176स मारुतसुतानीतमहौषधिहृतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ३४९ ॥’
कथाव्यापिनी नायिका यथा—
‘तीए सविसेसदूनिअसवत्तिहिअआइं 1177णिव्वलंतसिणेहं ।
पिअगरुइआइ णिमिअं सोहग्गगुणाण अग्गभूमीअ पअं ॥ ३५० ॥’
[तया सविशेषदूनितसपत्नीहृदयया निर्वर्त्यमानस्नेहम् ।
प्रियगुरूकृतया निर्मितं सौभाग्यगुणानामग्रभूम्यां पदम् ॥]
प्रतिनायिका यथा—
[तत्त्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिगन्धामोदम् ।
आत्मनानीतमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम् ॥]
उपनायिका यथा—
‘देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे
तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् ।
इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो
दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ३५२’
अनुनायिका यथा—
‘श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये1182 त्वयि
प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि ।