‘देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् ।
इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ३५२’