679
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै भवत्प्रेयसे1183
मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ ३५३ ॥’
आभासेषु नायकाभासो यथा—
‘1184कह मा छिज्जउ मज्झो इमीअ कंदोट्टदलसरिच्छेहिं ।
अच्छीहिं जो ण दीसइ घणथणहररुद्धपसरेहिं ॥ ३५४ ॥’
[कथं मा क्षीयतां मध्य एतस्या नीलोत्पलदलसदृशाभ्याम् ।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥]
नायिकाभासो यथा—
‘कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ ३५५ ॥’
उभयाभासो यथा—
[अवगूहितपूर्वदिशे समकं ज्योत्स्नया सेवितप्रदोषमुखे ।
मातर्न क्षीयते रजनी अपरदिशाभिमुखप्रस्थिते मृगाङ्के ॥]
तिर्यगाभासो यथा—
[उपरक्तपङ्कजमुखीं मन्मथनटितामिव सलिलशयननिषण्णाम् ।
आलिङ्गति तीरनलिनीं वाचा गमयति सहचरीं चक्रवाकः ॥]