‘किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि ।
1191जीवद्भ्रातृशतस्य मे 1192भुजबलच्छायां सुखामाश्रिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ ३५९ ॥’
  1. नि. सा. मुद्रिते वेणीसंहारे तु—‘भीरु भ्रातृशतस्य या भुजघनच्छाया सुखोपास्थिता’ इति पाठः
  2. ‘भुजवनच्छायां’ क