681

रजःप्रधानो राजसो यथा—

‘सामन्तमौलिमणिरञ्जितशासनाङ्क- मेकातपत्त्रमवनेर्न तथा प्रभुत्वम् ।
अस्याः सखे चरणयोरधिगम्य सम्य- गाज्ञाकरत्वमहमद्य यथा कृतार्थः ॥ ३६२ ॥’

तमःप्रधानस्तामसो यथा—

‘तपो वा शस्त्रं वा 1194व्यपदिशति यः कश्चिदिह वः स दर्पादु1195द्दामद्विषमसहमानः कलयतु ।
अरामां निःसीरध्वजदशरथीकृत्य वसुधा1196- मतृप्तस्तत्कुल्यानपि1197 परशुरामः शमयति ॥ ३६३ ॥’

अनेकजातिः साधारणो यथा—

‘स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु- र्द्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ३६४ ॥’

अनन्यजानिरसाधारणो यथा—

‘आविवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुर1198नुपासितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३६५ ॥’

अहंकारप्रधानो धीरोद्धतो यथा—

‘चक्रं वा मधुहा 1199कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा ।
  1. मुद्रिते महावीरचरिते तु ‘व्यवहरति’ इति पाठः
  2. ‘उद्दामं द्विषमसहमानं’ क, ‘उद्दामस्त्विषमसहमानः स्खलयतु’ इति च मुद्रिते वीरचरिते
  3. ‘जगतीं’ इति मुद्रिते वीरचरिते
  4. ‘तत्कुल्यामपि’ क, ‘तत्कल्पामपि’ ख
  5. ‘अनुपाश्रितोऽन्यया’ इति मुद्रित उत्तररामचरिते
  6. ‘कृतान्तगृहिणां’ ख