681
रजःप्रधानो राजसो यथा—
‘सामन्तमौलिमणिरञ्जितशासनाङ्क-
मेकातपत्त्रमवनेर्न तथा प्रभुत्वम् ।
अस्याः सखे चरणयोरधिगम्य सम्य-
गाज्ञाकरत्वमहमद्य यथा कृतार्थः ॥ ३६२ ॥’
तमःप्रधानस्तामसो यथा—
अनेकजातिः साधारणो यथा—
‘स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-
र्द्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ३६४ ॥’
अनन्यजानिरसाधारणो यथा—
‘आविवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुर1198नुपासितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३६५ ॥’
अहंकारप्रधानो धीरोद्धतो यथा—
‘चक्रं वा मधुहा 1199कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं
वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा ।