682
शूलं 1200वासुररक्तबिन्दुनिचितं गृह्णातु शूलायुधो
धृष्टद्युम्नमहं निहन्मि समरे कश्चित्परित्रायताम् ॥ ३६६ ॥’
रत्युपचारप्रधानो धीरललितो यथा—
‘आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरा-
स्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः ।
मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी
ध्याता तामरसाक्षि चित्रपटके1201 का वा त्वदन्या मया ॥ ३६७ ॥’
उपशमप्रधानो 1202धीरप्रशान्तो यथा—
1205विस्रब्धोदारकर्मा धीरोदात्तः । स यथा—
‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्श्रृण्वन्रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ ३६९ ॥’
कैतवप्रधानः शठो यथा—
‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।