683
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ३७० ॥’
कृतापराधोऽप्यविलक्षो धृष्टो यथा—
‘शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः
सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः ।
1206कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय-
स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति ॥ ३७१ ॥’
हृदयंगमप्रवृत्तिरनुकूलो यथा—
‘मुञ्च कोपम1207निमित्तकोपने सन्ध्यया प्रणमितोऽस्मि नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ ३७२ ॥’
औपरोधिकप्रवृत्तिर्दक्षिणो यथा—
अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥’
नायिकागुणेषु सर्वगुणसंपद्योगादुत्तमा यथा—
हसिआइं समंसलकोमलाइं वीसंभकोमलं वअणं ।
1208सब्भावकोमलं पुलइअं च णमिमो सुमहिलाणं ॥ ३७४ ॥’
[हसितानि समांसलकोमलानि विस्रम्भकोमलं वचनम् ।
सद्भावकोमलं प्रलोकितं च नमामः सुमहिलानाम् ॥]
पादोनगुणसंपद्योगान्मध्यमा यथा—