683
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ३७० ॥’

कृतापराधोऽप्यविलक्षो धृष्टो यथा—

‘शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः ।
1206कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय- स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति ॥ ३७१ ॥’

हृदयंगमप्रवृत्तिरनुकूलो यथा—

‘मुञ्च कोपम1207निमित्तकोपने सन्ध्यया प्रणमितोऽस्मि नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ ३७२ ॥’

औपरोधिकप्रवृत्तिर्दक्षिणो यथा—

अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥’

नायिकागुणेषु सर्वगुणसंपद्योगादुत्तमा यथा—

हसिआइं समंसलकोमलाइं वीसंभकोमलं वअणं ।
1208सब्भावकोमलं पुलइअं च णमिमो सुमहिलाणं ॥ ३७४ ॥’
[हसितानि समांसलकोमलानि विस्रम्भकोमलं वचनम् ।
सद्भावकोमलं प्रलोकितं च नमामः सुमहिलानाम् ॥]

पादोनगुणसंपद्योगान्मध्यमा यथा—

‘णिअदइअदंसणुक्खित्त पहिअ अणेन वच्चसु पहेण ।
1209गहवइबहुआ 1210दुल्लंघिअवाउरा इह ग्गामे1211 ॥ ३७५ ॥’
  1. ‘कियत्कृत्वा’ ख
  2. ‘मानं’ ख
  3. ‘सब्भावकोमलपुलाइअं’ क , ‘सब्भाव कोमच्छपुलाइअं व’ ख
  4. ‘गहवइहहूआ’ ख
  5. ‘दुल्लङ्घिवाउरा हअ इह ग्गामो’ क, ‘दुल्लङ्घिवाउदाहअप इह ग्गामो’ ख
  6. ‘इहअ ग्गामे’ घ