684
अर्धगुणसंपद्योगादधमा यथा—
[त्वं किल क्षणाद्विरज्यसे त्वं किलोपहससि सकलमहिलाः ।
एह्येहि वारपालिके अश्रु मलिनं समुत्प्रोञ्छामः ॥]
वयःकौशलाभ्यामसंपूर्णा मुग्धा यथा—
[सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति ।
मुग्धवधूका हस्यते प्रस्फोटयन्ती नखपदानि ॥]
वयसा परिपूर्णा मध्यमा यथा—
[प्रतिपक्षमन्युपुञ्जौ लावण्यपुटावनङ्गगजकुम्भौ ।
पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि ॥]
वयःकौशलाभ्यां संपूर्णा प्रगल्भा यथा—
[खिन्नस्य स्थापयत्युरसि पत्युर्ग्रीष्मापराह्णरमितस्य ।
आर्द्रे गलत्कुसुमं स्नानसुगन्धं चिकुरभारम् ॥]
- ‘तकिं खण’ ख↩
- ‘उवहरसि’ घ↩
- ‘अलमहिलाओ’ क ख↩
- ‘अंसूमइमलं’ क ख↩
- ‘समुप्पिसिओ’ ख, ‘समुप्पुसिमो’ घ↩
- ‘लग्गकुम्भपुप्पुति’ ख↩
- ‘मुद्धबहूआ’ ख↩
- ‘मण्णुपुञ्जे’ गाथासप्त॰, ‘मण्णुउडे’ क, ‘मत्तउजे’ ख↩
- ‘लावसउदे’ ख ↩
- ‘अणङ्गअकुम्भ’ ख↩
- ‘खिण्णस्स उरे पइणो ठत्रेइ’ गाथासप्त॰↩
- ‘ठवेइउ पइणो’ क, ‘वचेइर पइणो’ ख↩
- ‘गिम्हावरणहरणमिअस्स’ ख↩
- ‘गलन्तकुसुमं’ इति गाथासप्त॰↩