689
[तथा सा जानाति पापा लोके प्रच्छन्नमविनयं कर्तुम् ।
यथा प्रथममेव सैव लेख्यते मध्ये चरित्रवतीनाम्1282 ॥]

कलाचतुःषष्टिविद् गणिका यथा—

‘सछन्दरमणदंसणरसवड्ढिअगरुअवम्महविलासं ।
1283सुविअड्ढवेसवणिआरमिअं को वण्णिउं तरइ ॥ ३९५ ॥’
[स्वच्छन्दरमणदर्शनरसवर्धितगुरुकमन्मथविलासम् ।
सुविदग्धवेषवनितारमितं को वर्णितुं शक्नोति ॥]

रूपयौवनमात्रोपजीविनी रूपाजीवा यथा—

‘अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं र्किकरीकुरुते ॥ ३९६ ॥’

कुट्टमितादीनां कर्त्री विलासिनी यथा—

‘सामण्णसुन्दरीणं विब्भममावहइ अविणओ च्चेअ ।
धूम च्चिअ पज्जलिआणं बहु मओ सुरहिदारूण ॥ ३९७ ॥’
[सामान्यसुन्दरीणां विभ्रममावहत्यविनय एव ।
धूंम एव प्रज्वालितानां बहु मतः सुरभिदारूणाम् ॥]

यथोक्तलक्षणासु खण्डिता यथा—

1284पच्चूसागअणुरत्तदेह तइलोअलोणाणन्द ।
अण्णत्थखविअसव्वरिअ णहभूसण दिणवइ1285 णमो दे ॥ ३९८ ॥’
  1. ‘चरित्तवत्तीण’ क, ‘चरित्तवतीण’ ख
  2. ‘सुविअढ्ढसवेवित’ क, ‘सुविअट्ठवेसवाणि’ ख
  3. ‘पच्चूसागअ रंजितदेह पिआलोअ लोअणाणंद’ इति गाथासप्त॰ ‘प्रत्यूषागत रञ्जितदेह प्रियालोक लोचनानन्द’ इति च्छाया च । अथ ‘प्रत्यूषागत्तो द्वीपान्तरात्, पक्षे महिलान्तरावसथात् । अनुरक्तदेहः स्वभावतः, पक्षे तदङ्गसंगतकुङ्गुमादिना । त्रैलोक्यलोचनानन्द, अथ च स्त्रीलोकलोचनानन्द । अन्यत्र द्वीपान्तरे, पक्षे नायिकान्तरगृहे क्षपितशर्वरीक । नभोभूषण, पक्षे परस्त्रीदत्तनखभूषण । भास्वानिव दूरादेवाभिवन्दनीयस्त्वं न त्वभिगम्य इति टीकानिर्गलितार्थः । ‘पच्चसागअणुरवाअवत्तं तइलोअलोअणाणन्दम्’ क , ‘पच्चसागअणुरताअवत्तं तइलोअलोणाणन्द’ ख
  4. ‘वइ’ ख