693
हा मद्वत्सल वत्स रावण महत्पश्यामि ते संकटं वत्से कैकसि1320 हा हतासि 1321न चिरं त्रीन्पुत्रकान्द्रक्ष्यसि ४०८’

पाषण्डेषु भैरवानन्दो यथा—

‘दंसेमि तं पि 1322ससिणं वसुहावइण्णं1323 थम्भेमि तस्स वि रइस्स1324 रहं णहद्धे ।
आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिवलए1325 मह जं ण 1326सज्झम् ॥ ४०९ ॥’
[दर्शयामि तमपि शशिनं वसुधावतीर्णं स्तभ्नामि तस्यापि रवे रथं नभोऽर्धे ।
आनयामि यक्षसुरसिद्धगणाङ्गनास्तन्नास्ति भूमिवलये मम यन्न साध्यम् ॥]
वैहासिकः क्रीडनको विश्वास्यश्च विदूषकः ।

यथा—

‘फुल्लुक्करं कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा 1327रुच्चंति मुद्धविअइल्लपसूणपुंजा ॥ ४१० ॥’
[पुष्पोत्करं कलमभक्तसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदध्नः सदृक्षा रोचन्ते मुग्धविचकिलप्रसूनपुञ्जाः ॥]
मान्यः कलत्रवान्भुक्तविभवो गुणवान्विटः ॥ १७० ॥
  1. ‘नैकशि’ क, ‘नैकषि’ ग, ‘नैकपि’ घ
  2. ‘न चिरात्’ इति मुद्रिते वीरचरिते
  3. ‘दसिणं’ ख
  4. ‘वसुहावईणं’ ख
  5. ‘रदस्स गई’ क ख, ‘रविस्स रहं’ इति च काव्यमालामुद्रितकर्पूरमञ्जर्याम्
  6. ‘भूमिवलये’ क
  7. ‘सज्जम्’ क ख मुद्रितकर्पूरमञ्जर्यां च
  8. ‘ते किं च’ Harvard Oriental Series मुद्रितायां कर्पूरमञ्जर्याम्, काव्यमालामुद्रितायां च