694
स यथा—
धात्रेयकादिश्चेटो यथा—
‘चन्द्रापीडोऽथ संजातपीडः कादम्बरीं प्रति ।
प्राहिणोत्स्रस्तकेयूरः केयूरकमुपस्थितम् ॥ ४१२ ॥’
पताकासु—
स्वात्मोपयोगिन्यन्योपयोगिन्यनुपयोगिनी ।
पताकेत्यापताकेति प्रकरीति प्रकीर्त्यते ॥ १७१ ॥
तासु पताका हनूमान् यथा—
‘दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ४१३ ॥’
आपताकाप्रकर्यौ मारीचजटायुषौ यथा—
‘रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ४१४ ॥’
सहजा पूर्वजागन्तुः सखीह त्रिविधोच्यते ।
तासु लवाङ्गिकादिः सहजा यथा—
‘उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४१५ ॥’
कामन्दक्यादिः पूर्वजा यथा—