694

स यथा—

‘शकार किं प्रार्थनया प्रावारेणामिषेण वा1328
1329अकार्यवर्जं मे ब्रूहि किमभीष्टं 1330करोमि ते ॥ ४११ ॥’

धात्रेयकादिश्चेटो यथा—

‘चन्द्रापीडोऽथ संजातपीडः कादम्बरीं प्रति ।
प्राहिणोत्स्रस्तकेयूरः केयूरकमुपस्थितम् ॥ ४१२ ॥’

पताकासु—

स्वात्मोपयोगिन्यन्योपयोगिन्यनुपयोगिनी ।
पताकेत्यापताकेति प्रकरीति प्रकीर्त्यते ॥ १७१ ॥

तासु पताका हनूमान् यथा—

‘दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ४१३ ॥’

आपताकाप्रकर्यौ मारीचजटायुषौ यथा—

‘रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ४१४ ॥’
सहजा पूर्वजागन्तुः सखीह त्रिविधोच्यते ।

तासु लवाङ्गिकादिः सहजा यथा—

‘उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४१५ ॥’

कामन्दक्यादिः पूर्वजा यथा—

‘तथा विनयनम्रापि 1331मया मालत्युपायतः ।
नीता 1332कतिपयाहोभिः सखी विस्रम्भसेव्यताम् ॥ ४१६ ॥’
  1. ‘प्रावारेण मिषेण वा’ क, ‘प्रावारेणामिषेण वा’ घ
  2. ‘आकार्यवर्जं’ ग
  3. ‘करोति’ ग
  4. ‘यथा’ ख
  5. ‘कतिपयाहेन’ Dr, R. G. Bhandarkar मुद्रिते मालतीमाधवे