695
त्रिजटादिरागन्तुर्यथा—
[जानकि स्नेहभणितं मा रजनीचरीति मे जुगुप्सस्व वचनम् ।
उद्याने वने च यत्सुरभि तल्लतानां गृह्यते कुसुमम् ॥]
नायकगुणेषु महाकुलीनत्वं पुंसो यथा—
‘वासिष्ठैः सुकृतोनद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो
भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः ।
अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्येद्भटं
विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः1336 ॥ ४१८ ॥’
औदार्यं यथा—
महाभाग्यं यथा—
‘1339दोर्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण-
ग्रन्थ्युद्भासिनि भग्नमोघमघवन्मातङ्गदन्तोद्यमे ।
भर्तुर्नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता
वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ ४२० ॥’