696

कृतज्ञता यथा—

‘कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितै- र्वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलसधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स कव प्रियः ॥ ४२१ ॥’

रूपसंपद् यथा—

‘व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्त्रो धर्म इवाश्रितः1340 ॥ ४२२ ॥’

यौवनसंपद् यथा—

‘महोक्षतां वत्सतरः स्पृशान्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः ॥ ४२३ ॥’

वैदग्ध्यसंपद् यथा—

‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं 1341क्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलकौ मृद्नन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ४२४ ॥’

शीलसंपद् यथा—

‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ४२५ ॥’

सौभाग्यसंपद् यथा—

‘असौ विद्याधारः शिशुरपि विनिर्गत्य भवनादिहायातः संप्रत्यविकलशरच्चन्द्रमधुरः ।
  1. ‘इवास्थितः’ ग
  2. ‘कास्ति’ ख