697
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ४२६ ॥’
मानिता यथा—
‘यदात्थ कामं भवता स याच्यता-
मिति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः
1342परानुवृत्त्या मलिनीकृताः श्रियः ॥ ४२७ ॥’
उदारवाक्यत्वं यथा—
स्थिरानुरागिता यथा—
‘ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः
पुराणैरतङ्कग्लपितहृदयेन क्षितिभृता ।
विना वाचं नैतत्क्षममिति1347 निधायाननमधः
पतद्बाष्पाम्भोभिर्निखिलमिव दत्तं प्रतिवचः ॥ ४२९ ॥’
नायिकागुणेषु स्त्रिया महाकुलिनता यथा—
‘1348मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ ४३० ॥’